(समस्त विपरीत अवस्था को अपने पक्ष में करने हेतु)
ईश्वर उवाच
शृणु देवि
प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् ।
नाम्नां
सहस्रम्परमं सुमुख्याः सिद्धये हितम् ॥
सहस्रनामपाठी यः
सर्वत्र विजयी भवेत् ।
पराभवो न
तस्यास्ति सभायाव्वा महारणे ॥
यथा तुष्टा
भवेद्देवी सुमुखी चास्य पाठतः ।
तथा भवति देवेशि
साधकः शिव एव सः ॥
अश्वमेधसहस्राणि
वाजपेयस्य कोटयः ।
सकृत्पाठेन
जायन्ते प्रसन्ना सुमुखी भवेत् ॥
मतङ्गोऽस्य
ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता ।
सुमुखी विनियोगः
स्यात्सर्वसम्पत्तिहेतवे ॥
एवन्ध्यात्वा
पठेदेतद्यदीच्छेत्सिद्धिमात्मनः ।
देवीं
षोडशवार्षिकीं शवगताम्माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बराम्पृथुकुचाङ्गुञ्जावलीशोभिताम्
।
हस्ताभ्यान्दधतीङ्कपालममलन्तीक्ष्णान्तथा
कर्त्त्रिकान्ध्यायेन्मानसपङ्कजे
भगवतीमुच्छिष्टचाण्डालिनीम् ॥
ॐ सुमुखी
शेमुषीसेव्या सुरसा शशिशेखरा ।
समानास्या साधनी
च समस्तसुरसन्मुखी ॥
सर्वसम्पत्तिजननी
सम्मदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी
सौम्या समाराध्या सुधारसा ॥
सारङ्गा सवली
वेलालावण्यवनमालिनी ।
वनजाक्षी वनचरी
वनी वनविनोदिनी ॥
वेगिनी वेगदा
वेगा बगलस्था बलाधिका ।
काली कालप्रिया
केली कमला कालकामिनी ॥
कमला कमलस्था च
कमलस्थाकलावती ।
कुलीना कुटिला
कान्ता कोकिला कलभाषिणी ॥
कीराकेलिकरा काली
कपालिन्यपि कालिका ।
केशिनी च
कुशावर्त्ता कौशाम्भी केशवप्रिया ॥
काली काशी
महाकालसङ्काशा केशदायिनी ।
कुण्डला च
कुलस्था च कुण्डलाङ्गदमण्डिता ॥
कुण्डपद्मा
कुमुदिनी कुमुदप्रीतिवर्द्धिनी ।
कुण्डप्रिया
कुण्डरुचिः कुरङ्गनयना कुला ॥
कुन्दबिम्बालिनदनी
कुसुम्भकुसुमाकरा ।
काञ्ची
कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥
कठोरकरणा काष्ठा
कौमुदी कण्डवत्यपि ।
कपर्द्दिनी
कपटिनी कठिनी कलकण्डिनी ॥
कीरहस्ता कुमारी
च कुरूढकुसुमप्रिया ।
कुञ्जरस्था
कुजरता कुम्भी कुम्भस्तनी कला ॥
कुम्भीकाङ्गा
करभोरूः कदली कुशशायिनी ।
कुपिता कोटरस्था
च कङ्काली कन्दलालया ॥
कपालवासिनी केशी
कम्पमानशिरोरुहा ।
कदम्बरी
कदम्बस्था कुङ्कुमप्रेमधारिणी ॥
कुटुम्बिनी
कृपायुक्ता क्रतुः क्रतुकरप्रिया ।
कात्यायनी
कृत्तिका च कार्त्तिकी कुशवर्त्तिनी ॥
कामपत्नी
कामदात्री कामेशी कामवन्दिता ।
कामरूपा कामरतिः
कामाख्या ज्ञानमोहिनी ॥
खड्गिनी खेचरी
खञ्जा खञ्जरीटेक्षणा खगा ।
खरगा खरनादा च
खरस्था खेलनप्रिया ॥
खरांशुः खेलनी
खट्वाखराखट्वाङ्गधारिणी।
खरखण्डिन्यपि ख्यातिः
खण्डिता खण्डनप्रिया ॥
खण्डप्रिया
खण्डखाद्या खण्ढसिन्धुश्च खण्डिनी ।
गङ्गा गोदावरी
गौरी गोतम्यपि च गौतमी ॥
गङ्गा गया गगनगा
गारुडी गरुडध्वजा ।
गीता गीतप्रिया
गेया गुणप्रीतिर्ग्गुरुर्गिरी ।
गौर्गौरी
गण्डसदना गोकुला गोःप्रतारिणी ।
गोप्ता
गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥
गजगा गोपिनी गोपी
गोक्षाजयप्रिया गणा ।
गिरिभूपालदुहिता
गोगा गोकुलवासिनी ॥
घनस्तनी
घनरुचिर्ग्घनोरुग्घननिस्स्वना ।
घुङ्कारिणी
घुक्षकरी घूघूकपरिवारिता ॥
घण्टानादप्रिया
घण्टा घोटा घोटकवाहिनी ।
घोररूपा च घोरा च
घृतप्रीतिर्ग्घृताञ्जनी ॥
घृताची
घृतवृष्टिश्च घण्टा घटघटावृता ।
घटस्था घटना
घातकरी घातनिवारिणी ॥
चञ्चरीकी चकोरी च
च चामुण्डा चीरधारिणी ।
चातुरी चपला
चञ्चुश्चिता चिन्तामणिस्थिता ॥
चातुर्वर्ण्यमयी
चञ्चुश्चोराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चित्रा
चक्राङ्गी चक्रमोदिनी ॥
चेतश्चरी
चित्तवृत्तिश्चेतना चेतनप्रिया ।
चापिनी
चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥
चिरञ्जीविनी
तच्चिन्ता चिञ्चामूलनिवासिनी ।
छूरिका
छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥
छुच्छुन्दरी
छलप्रीतिश्छुच्छुन्दरनिभस्वना ।
छलिनी छत्रदा
छिन्ना छिण्टिच्छेदकरी छटा ॥
छद्मिनी छान्दसी
छाया छरू छन्दाकरीत्यपि ।
जयदा जयदा जाती
जायिनी जामला जतुः ॥
जम्बूप्रिया
जीवनस्था जङ्गमा जङ्गमप्रिया ।
जवापुष्पप्रिया
जप्या जगज्जीवा जगज्जनिः ॥
जगज्जन्तुप्रधाना
च जगज्जीवपराजवा ।
जातिप्रिया
जीवनस्था जीमूतसदृशीरुचिः ॥
जन्या जनहिता
जाया जन्मभूर्ज्जम्भसी जभूः ।
जयदा जगदावासा
जायिनी ज्वरकृच्छ्रजित् ॥
जपा च जपती जप्या
जपाहा जायिनी जना ।
जालन्धरमयीजानुर्ज्जालौका
जाप्यभूषणा ॥
जगज्जीवमयीजीवा
जरत्कारुर्ज्जनप्रिया ।
जगती जननिरता
जगच्छोभाकरी जवा ॥
जगतीत्राणकृज्जङ्घा
जातीफलविनोदिनी ।
जातीपुष्पप्रिया
ज्वाला जातिहा जातिरूपिणी ॥
जीमूतवाहनरुचिर्ज्जीमूता
जीर्णवस्त्रकृत् ।
जीर्णवस्त्रधरा
जीर्णा ज्वलती जालनाशिनी ॥
जगत्क्षोभकरी
जातिर्ज्जगत्क्षोभविनाशिनी ।
जनापवादा जीवा च
जननीगृहवासिनी ॥
जनानुरागा
जानुस्था जलवासा जलार्त्तिकृत् ।
जलजा जलवेला च जलचक्रनिवासिनी
॥
जलमुक्ता जलारोहा
जलजा जलजेक्षणा ।
जलप्रिया जलौका च
जलांशोभवती तथा ॥
जलविस्फूर्ज्जितवपुर्ज्ज्वलत्पावकशोभिनी
।
झिञ्झा झिल्लमयी
झिञ्झाझणत्कारकरी जया ॥
झञ्झी झम्पकरी
झम्पा झम्पत्रासनिवारिणी ।
टङ्कारस्था
टङ्ककरी टङ्कारकरणांहसा ॥
टङ्कारोट्टकृतष्ठीवा
डिण्डीरवसनावृता ।
डाकिनी डामिरी
चैव डिण्डिमध्वनिनादिनी ॥
डकारनिस्स्वनरुचिस्तपिनी
तापिनी तथा ।
तरुणी तुन्दिला
तुन्दा तामसी च तमः प्रिया ॥
ताम्रा ताम्रवती
तन्तुस्तुन्दिला तुलसम्भवा ।
तुलाकोटिसुवेगा च
तुल्यकामा तुलाश्रया ॥
तुदिनी तुनिनी
तुम्बा तुल्यकाला तुलाश्रया ।
तुमुला तुलजा
तुल्या तुलादानकरी तथा ॥
तुल्यवेगा
तुल्यगतिस्तुलाकोटिनिनादिनी ।
ताम्रोष्ठा
ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥
त्वरिता ज्वरहा
तीरा तारकेशी तमालिनी ।
तमोदानवती
तामतालस्थानवती तमी ।
तामसी च तमिस्रा
च तीव्रा तीव्रपराक्रमा ।
तटस्था
तिलतैलाक्ता तरुणी तपनद्युतिः ॥
तिलोत्तमा च
तिलकृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया
तारा तारकेशी कुटुम्बिनी ॥
स्थाणुपत्नी
स्थिरकरी स्थूलसम्पद्विवर्द्धिनी ।
स्थितिः
स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥
स्थूलस्थलवती
स्थाली स्थलसङ्गविवर्द्धिनी ।
दण्डिनी दन्तिनी
दामा दरिद्रा दीनवत्सला ॥
देवा
देववधूर्द्दित्या दामिनी देवभूषणा ।
दया दमवती
दीनवत्सला दाडिमस्तनी ॥
देवमूर्त्तिकरा
दैत्यादारिणी देवतानता ।
दोलाक्रीडा
दयालुश्च दम्पती देवतामयी ॥
दशादीपस्थिता
दोषादोषहा दोषकारिणी ।
दुर्गा
दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी ।
दुर्गन्धनाशिनी
दुस्स्था दुःखप्रशमकारिणी ।
दुर्ग्गन्धा
दुन्दुभीध्वान्ता दूरस्था दूरवासिनी ॥
दरदामरदात्री च
दुर्व्व्याधदयिता दमी ।
धुरन्धरा धुरीणा
च धौरेयी धनदायिनी ॥
धीरारवा धरित्री
च धर्मदा धीरमानसा ।
धनुर्द्धरा च
धमनी धमनीधूर्त्तविग्रहा ॥
धूम्रवर्णा
धूम्रपाना धूमला धूममोदिनी ।
नन्दिनी
नन्दिनीनन्दा नन्दिनीइनन्दबालिका ॥
नवीना नर्मदा
नर्मनेमिर्न्नियमनिस्स्वना ।
निर्मला
निगमाधारा निम्नगा नग्नकामिनी ॥
नीला निरत्ना
निर्वाणा निर्ल्लोभा निर्गुणा नतिः ।
नीलग्रीवा निरीहा
च निरञ्जनजमानवा ॥
निर्गुण्डिका च
निर्गुण्डा निर्न्नासा नासिकाभिधा ।
पताकिनी पताका च
पत्रप्रीतिः पयस्विनी ॥
पीना पीनस्तनी
पत्नी पवनाशी निशामयी ।
परापरपराकाली
पारकृत्यभुजप्रिया ॥
पवनस्था च पवना
पवनप्रीतिवर्द्धिनी ।
पशुवृद्धिकरी
पुष्पी पोषका पुष्टिवर्द्धिनी ॥
पुष्पिणी
पुस्तककरा पूर्णिमातलवासिनी ।
पेशी पाशकरी पाशा
पांशुहा पांशुला पशुः ॥
पटुः पराशा
परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी
च पतिता पतितापती ॥
पिशाची च
पिशाचघ्नी पिशिताशनतोषिणी ।
पानदा पानपात्री
च पानदानकरोद्यता ॥
पेयाप्रसिद्धा
पीयूषा पूर्णा पूर्णमनोरथा ।
पतङ्गाभा पतङ्गा
च पौनःपुन्यपिबापरा ॥
पङ्किला
पङ्कमग्ना च पानीया पञ्जरस्थिता ।
पञ्चमी पञ्चयज्ञा
च पञ्चता पञ्चमाप्रिया ॥
पिचुमन्दा
पुण्डरीका पिकी पिङ्गललोचना ।
प्रियङ्गुमञ्जरी
पिण्डी पण्डिता पाण्डुरप्रभा ॥
प्रेतासना
प्रियालस्था पाण्डुघ्नी पीनसापहा ।
फलिनी फलदात्री च
फलश्रीः फलभूषणा ॥
फूत्कारकारिणी
रफारी फुल्ला फुल्लाम्बुजानना ।
स्फुलिङ्गहा
स्फीतमतिः स्फीतकीर्त्तिकरी तथा ॥
बालमाया
बलारातिर्ब्बलिनी बलवर्द्धिनी ।
वेणुवाद्या वनचरी
विरञ्चिजनयत्यपि ॥
विद्याप्रदा
महाविद्या बोधिनी बोधदायिनी ।
बुद्धमाता च
बुद्धा च वनमालावती वरा ॥
वरदा वारुणी वीणा
वीणावादनतत्परा ।
विनोदिनी
विनोदस्था वैष्णवी विष्णुवल्लभा ॥
वैद्या
वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
विद्यौघविह्वला
वेला वित्तदा विगतज्वरा ॥
विरावा विवरीकारा
बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था परवन्द्या
च वीरस्थानवरा च वित् ॥
वेदान्तवेद्या
विजया विजयाविजयप्रदा ।
विरोगी वन्दिनी
वन्ध्या वन्द्यबन्धनिवारिणी ॥
भगिनी भगमाला च
भवानी भवनाशिनी ।
भीमा भीमानना
भीमाभङ्गुरा भीमदर्शना ॥
भिल्ली भिल्लधरा
भीरुर्ब्भरुण्डाभी भयावहा ।
भगसर्पिण्यपि भगा
भगरूपा भगालया ॥
भगासना भवाभोगा
भेरीझङ्काररञ्जिता ।
भीषणा भीषणारावा
वभगत्यहिभूषणा ॥
भारद्वाजा
भोगदात्री भूतिघ्नी भूतिभूषणा ।
भूमिदाभूमिदात्री
च भूपतिर्ब्भरदायिनी ॥
भ्रमरी भ्रामरी
भाला भूपालकुलसंस्थिता ।
माता मनोहरा माया
मानिनी मोहिनी मही ॥
महालक्ष्मीर्मदक्षीबा
मदिरा मदिरालया ।
मदोद्धता
मतङ्गस्था माधवी मधुमर्द्दिनी ॥
मोदा मोदकरी मेधा
मेध्यामध्याधिपस्थिता ।
मद्यपा
मांसलोभस्था मोदिनी मैथुनोद्यता ॥
मूर्द्धावती
महामाया माया महिममन्दिरा ।
महामाला
महाविद्या महामारी महेश्वरी ॥
महादेववधूमान्या
मथुरा मेरुमण्डिता ।
मेदस्विनी
मिलिन्दाक्षी महिषासुरमर्द्दिनी ॥
मण्डलस्था भगस्था
च मदिरारागगर्विता ।
मोक्षदा
मुण्डमाला च माला मालाविलासिनी ॥
मातङ्गिनी च
मातङ्गी मातङ्गतनयापि च ।
मधुस्रवा मधुरसा
बन्धूककुसुमप्रिया ॥
यामिनी
यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया
यामा यवनी यवनार्दिनी ॥
यमघ्नी यमकल्पा च
यजमानस्वरूपिणी ।
यज्ञा
यज्ञयजुर्यक्षी यशोनिः कम्पकाकारिणी ॥
यक्षिणी यक्षजननी
यशोदायासधारिणी ।
यशस्सूत्रप्रदा
यामा यज्ञकर्मकरीत्यपि ॥
यशस्विनी
यकारस्था भूयस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी
च रमा रेखा रवी रणा ॥
रजोवती रजश्चित्रा
रञ्जनी रजनीपतिः ।
रोगिणी रजनी
राज्ञा राज्यदा राज्यवर्द्धिनी ॥
राजन्वती
राजनीतिस्तथा रजतवासिनी ।
रमणीरमणीया च
रामा रामावती रतिः ।
रेतो रती
रतोत्साहा रोगघ्नी रोगकारिणी ।
रङ्गा रङ्गवती
रागा रागा रागज्ञा रागकृद्दया ॥
रामिका रजकी रेवा
रजनी रङ्गलोचना ।
रक्तचर्मधरा
रङ्गी रङ्गस्था रङ्गवाहिनी ॥
रमा
रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गा
रङ्गाङ्गमधुरा रोदसी च महारवा ॥
रोधकृद्रोगहन्त्री
च रूपभृद्रोगस्राविणी ।
बन्दी
वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥
वन्दिता
वन्द्यमाना च वैद्रावी वेदविद्विधा ।
विकोपा विकपाला च
विङ्कस्था विङ्कवत्सला ॥
वेदैर्विलग्नलग्ना
च विधिविङ्ककरी विधा ।
शङ्खिनी शङ्खवलया
शङ्खमालावती शमी ॥
शङ्खपात्रा शिनी
शङ्खस्वनशङ्खगला शशी ।
शबरी शम्बरी
शम्भुः शम्भुकेशा शरासिनी ॥
शवा श्येनवती
श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था
श्मशाना च श्मशानस्थानभूषणा ॥
शमदा शमहन्त्री च
शङ्खिनी शङ्खरोषरा ।
शान्तिश्शान्तिप्रदा
शेषा शेषाख्या शेषशायिनी ॥
शेमुषी शोषिणी
शेषा शौर्या शौर्यशरा शरी ।
शापदा शापहा
शापाशापपन्था सदाशिवा ॥
शृङ्गिणी शृङ्गिपलभुक्
शङ्करी शाङ्करी शिवा ।
शवस्था शवभुक्
शान्ता शवकर्णा शवोदरी ॥
शाविनी
शवशिंशाश्रीः शवा च शमशायिनी ।
शवकुण्डलिनी
शैवाशीकरा शिशिराशिना ॥
शवकाञ्ची
शवश्रीका शबमाला शवाकृतिः ।
सवन्ती सङ्कुचा
शक्तिश्शन्तनुश्शवदायिनी ॥
सिन्धुस्सरस्वती
सिन्धुस्सुन्दरी सुन्दरानना ।
साधुः
सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥
सन्ततिस्सम्पदा
संवच्छङ्किसम्पत्तिदायिनी ।
सपत्नी सरसा सारा
सारस्वतकरी सुधा ॥
सुरासमांसाशना च
समाराध्या समस्तदा ।
समधीस्सामदा सीमा
सम्मोहा समदर्शना ॥
सामतिस्सामधा
सीमा सावित्री सविधा सती ।
सवना सवनासारा
सवरा सावरा समी ॥
सिमरा सतता
साध्वी सध्रीची ससहायिनी ।
हंसी हंसगतिहंसी
हंसोज्ज्वलनिचोलयुक् ॥
हलिनी हालिनी
हाला हलश्रीर्हरवल्लभा ।
हला हलवती ह्येषा
हेला हर्षविवर्द्धिनी ॥
हन्तिर्हन्ता
हयाहाहाहताहन्तातिकारिणी ।
हङ्कारी
हङ्कृतिर्हङ्का हीहीहाहाहिताहिता ॥
हीतिर्हेमप्रदा
हाराराविणी हरिरसम्मता ।
होरा होत्री होलिका
च होमा होमहविर्हविः ॥
हरिणी
हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी
लम्बकर्णा लम्बिका लम्बविग्रहा ॥
लीला लीलावती
लोला ललना ललिता लता ।
ललामलोचना लोभ्या
लोलाक्षी सत्कुलालया ॥
लपत्नी लपती
लम्पा लोपामुद्रा ललन्तिका ।
लतिका लङ्घिनी
लङ्घा लालिमा लघुमध्यमा ॥
लघीयसी लघूदर्या
लूता लूताविनाशिनी ।
लोमशा लोमलम्बी च
लुलन्ती च लुलुम्पती ॥
लुलायस्था बलहरी
लङ्कापुरपुरन्दरा ।
लक्ष्मीर्ल्लक्ष्मीप्रदा
लभ्या लाक्षाक्षी लुलितप्रभा ॥
क्षणा
क्षणक्षुक्षुक्षिणी क्षमाक्षान्तिः क्षमावती ।
क्षामा क्षामोदरी
क्षेम्या क्षौमभृत्क्षत्रियाङ्गणा ॥
क्षया क्षायाकरी
क्षीरा क्षीरदा क्षीरसागरा ।
क्षेमङ्करी
क्षयकरी क्षयकृत्क्षणदा क्षतिः ॥
क्षुद्रिका
क्षुद्रिकाक्षुद्रा क्षुत्क्षमा क्षीणपातका ।
मातुः
सहस्रनामेदं सुमुख्यास्सिद्धिदायकम् ॥
यः पठेत्प्रयतो
नित्यं स एव स्यान्महेश्वरः ।
अनाचारात्पठेन्नित्यन्दरिद्रो
धनवान्भवेत् ॥
मूकस्स्याद्वाक्पतिर्देवि
रोगी नीरोगताव्व्रजेत् ।
पुत्रार्त्थी
पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥
वन्ध्यापि सूयते
पुत्रव्विदुषस्सदृशङ्गुरोः ।
सत्यञ्च बहुधा
भूयाद्गावश्च बहुदुग्धदाः ॥
राजानः
पादनम्रास्स्युस्तस्य हासा इव स्फुटाः ।
अरयस्सङ्क्षयय्यान्ति
मानसा संस्मृता अपि ॥
दर्शनादेव
जायन्ते नरा नार्योपि तद्वशाः ।
कर्त्ता हर्त्ता
स्वयवीरो जायते नात्र संशयः ॥
यय्यङ्कामयते
कामन्तन्तमाप्नोति निश्चितम् ।
दुरितन्न च
तस्यास्ति नास्ति शोकः कथञ्चन ॥
चतुष्पथेऽर्द्धरात्रे
च यः पठेत्साधकोत्तमः ।
एकाकी निर्ब्भयो
वीरो दशावर्त्तस्तवोत्तमम् ॥
मनसा
चिन्तितङ्कार्यं तस्य सिद्धिर्न्न संशयः ।
विना
सहस्रनाम्नाय्यो जपेन्मन्त्रङ्कदाचन ॥
न
सिद्धिर्ज्जायते तस्य मन्त्रङ्कल्पशतैरपि ।
कुजवारे श्मशाने
वा मध्याह्ने यो जपेत्सदा ॥
कृतकृत्यस्स जायेत
कर्त्ता हर्त्ता नृणामिह ।
रोगार्त्तोऽर्द्धनिशायाय्यः
पठेदासनसंस्थितः ॥
सद्यो
नीरोगतामेति यदि स्यान्निर्ब्भयस्तदा ।
अर्द्धरात्रे
श्मशाने वा शनिवारे जपेन्मनुम् ।
अष्टोत्तरसहस्रन्तु
दशवारञ्जपेत्ततः ।
सहस्रनाम चैतद्धि
तदा याति स्वयं शिवा ॥
महापवनरूपेण घोरगोमायुनादिनी
।
ततो यदि न भीतिः
स्यात्तदा देहीतिवाग्भवेत् ॥
तदा
पशुबलिन्दद्यात्स्वयं गृह्णाति चण्डिका ।
यथेष्टञ्च
वरन्दत्त्वा प्रयाति सुमुखी शिवा ॥
रोचनागुरुकस्तूरीकर्प्पूरैश्च
सचन्दनैः ।
कुङ्कुमेन दिने
श्रेष्ठे लिखित्वा भूर्ज्जपत्रके ॥
शुभनक्षत्रयोगे च
कृतमारुतसक्रियः ।
कृत्वा
सम्पातनविधिन्धारयेद्दक्षिणे करे ॥
सहस्रनाम
स्वर्णस्थङ्कण्ठे वा विजितेन्द्रियः ।
तदायम्प्रणमेन्मन्त्री
क्रुद्धस्स म्रियते नरः ॥
दुष्टश्वापदजन्तूनान्न
भीः कुत्रापि जायते ।
बालकानामियं
रक्षा गर्ब्भिणीनामपि प्रिये ॥
मोहनस्तम्भनाकर्ष-मारणोच्चाटनानि
च ।
यन्त्रधारणतो
नूनञ्जायन्ते साधकस्य तु ॥
नीलवस्त्रे
विलिखिते ध्वजायाय्यदि तिष्ठति ।
तदा नष्टा
भवत्येव प्रचण्डाप्यरिवाहिनी ॥
एतज्जप्तम्महाभस्म
ललाटे यदि धारयेत् ।
तद्विलोकन एव
स्युः प्राणिनस्तस्य किङ्कराः ॥
राजपत्न्योऽपि
विवशाः किमन्याः पुरयोषितः ।
एतज्जप्तम्पिबेत्तोयम्मासेन
स्यान्महाकविः ॥
पण्डितश्च
महावादी जायते नात्र संशयः ।
अयुतञ्च
पठेत्स्तोत्रम्पुरश्चरणसिद्धये ॥
दशांशङ्कमलैर्हुत्वा
त्रिमध्वाक्तैर्विधानतः ।
स्वयमायाति कमला
वाण्या सह तदालये ॥
मन्त्रो
निःकीलतामेति सुमुखी सुमुखी भवेत् ।
अनन्तञ्च
भवेत्पुण्यमपुण्यञ्च क्षयव्व्रजेत् ॥
पुष्करादिषु
तीर्त्थेषु स्नानतो यत्फलम्भवेत् ।
तत्फलल्लभते
जन्तुः सुमुख्याः स्तोत्रपाठतः ॥
एतदुक्तं
रहस्यन्ते स्वसर्वस्वव्वरानने ।
न
प्रकाश्यन्त्वया देवि यदि सिद्धिञ्च विन्दसि ॥
प्रकाशनादसिद्धिस्स्यात्कुपिता
सुमुखी भवेत् ।
नातः परतरो लोके
सिद्धिदः प्राणिनामिह ॥
वन्दे
श्रीसुमुखीम्प्रसन्नवदनाम्पूर्णेन्दुबिम्बाननां
सिन्दूराङ्कितमस्तकाम्मधुमदोल्लोलाञ्च
मुक्तावलीम् ।
श्यामाङ्कञ्जलिकाकराङ्करगतञ्चाध्यापयन्तीं
शुकङ्गुञ्जापुञ्जविभूषणां
सकरुणामामुक्तवेणीलताम् ॥
इति
श्रीनन्द्यावर्त्ततन्त्रे उत्तरखण्डे मातङ्गीसहस्रनामस्तोत्रं
सम्पूर्णम् ॥