श्री सावित्री स्तोत्रं

श्री सावित्री स्तोत्रं


   पति के लम्बि आयु और स्वस्थ्य लाभ हेतु अति शिघ्र फलदायि स्त्रोत्र


ब्रह्मोवाच
नारायणस्वरुपे च नारायणि सनातनि ।
नारायणसमुद्भूते प्रसन्ना भव सुन्दरि ॥ १ ॥

तेजःस्वरुपे परमे परमानन्दरुपिणि । 
द्विजातीनां जातिरुपे प्रसन्ना भव सुन्दरि ॥ २ ॥

नित्ये नित्यप्रिये देवि नित्यानन्दस्वरुपिणि ।
सर्वमङ्गलरुपेण प्रसन्ना भव सुन्दरि ॥ ३ ॥

सर्वस्वरुपे विप्राणां मन्न्रसारे परात्परे । 
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ॥ ४ ॥

विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ।
ब्रह्मतेजःप्रदे  देवि प्रसन्ना भव सुन्दरि ॥ ५ ॥ 

कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।
तत् ते स्मरणमात्रेण भस्मीभूतं भविष्यति ॥ ६ ॥


॥ इति श्रीब्रह्मवैवर्तपुराणे प्रकृतिखण्डे श्रीब्रह्मदेवकृतं श्रीसावित्रीदेवी स्तोत्रं संपूर्णम् ॥ 

From Our Blog

what our clients say